।। सत्यं परं धीमहि ।।

Contact | Disclaimer


Shadvala - Center for Sanskrit Studies, Goa aims at

  • promoting and nurturing Sanskrit studies
  • organizing courses and workshops on different aspects of ancient Indian culture and philosophy
  • engaging in inter-cultural exchange and inter-religious dialogue at national and international level

।।ऐं।।

विश्वेशितुः भगवतः वरदानरूपं गोवा इति प्रथितनाम मनोज्ञराज्यम् ।
यत्रोच्छलन्ति कृतपातकपुञ्जभङ्गाः हर्ष-प्रकर्ष-सुखदा जलधेःस्तरङ्गाः।।१।।

सर्वासु दिक्षु हरिता ललिता वनालिः उच्चावचास्तरुभृतः गिरिभूमिभागाः।
श्रीमाण्डवीजलभरै रुचिराः प्रदेशाः आवर्जयन्ति सुखयन्ति विनोदयन्ति।।२।।

पक्षिव्रजाः परमदुर्लभदर्शना ये नानाप्रकारपशवश्च मनोहराङ्गाः।
ये चेष्टितैः बहुविधैर्निजदर्शकानां चेतो हरन्ति, नयनानि च रञ्जयन्ति।।३।।

रत्नाकराज्जलनिधेः खलु निर्गतानि शङ्ख-प्रवाल-मणि-मौक्तिक-रूप-भाञ्जि।
वस्तूनि यानि बहुमूल्यधराणि तानि गोवा-समृद्धिमनिशं शतशाखयन्ति।।४।।

दृश्यानि यानि रमणीयतराणि चात्र वैशिष्ट्यवत्प्रकृति निर्मितरूपवन्ति।
दृष्टुः प्रविश्य हृदि नैव बहिः प्रयान्ति तेषां परत्र तुलना कणिकाऽप्यलभ्या।।५।।

अल्पस्वरूपमपि राज्यमिदं धरित्र्यां अल्पेतरेण यशसा बहुयत्प्रसिद्धम्।
मन्ये हि तस्य वसतामिह मानवानां शिक्षा श्रमः कुशलतादिक कारणानि।।६।।

सर्वेषु सत्सु विभवेषु किल स्थलेऽत्र नूनं हि किञ्चिदिह सम्प्रति योजनीयम्।
इत्थं विचार्य बहुशः प्रभुणा कृताऽत्र दैवीगिरः सुपठनस्य नवा व्यवथा।।७।।

धन्या किलाद्य दिवसः स्मरणीयरूपः सर्वे प्रसन्नमनसः मुदिता धरित्री।।
यद् वेदपाठ-परिनिष्ठित-पण्डिताग्र्याः नार्वे-महीं पदरजोभिरिमां पुनान्ति।।८।।

तारस्वरोच्चरित-सस्वर-वेद-घोषाः येषां हि कर्णसदनेष्वतिथी भवन्ति।
भूत्वा पवित्रमतयो निजजीवने ते कीर्तेः सुखस्य शिखरं युगपत्स्पृशन्ति।।९।।

आनन्दमिश्र इति शाद्वल-केन्द्रकर्ता यः यौवनं स्वकरणीय-मखे जुहोति।
एतत्प्रयासमुदितो जगतामधीशः त्वस्मै प्रयच्छतुतरां शुभ-साध्य-सिद्धिम्।।१०।।
—पण्डित गिरिजाशङ्करमिश्रः


।। सत्यं परं धीमहि ।।

Contact | Disclaimer